पुरुष सूक्त तथा रुद्रसूक्त
Purusha Suktam ॐ सहस्र शीर्षा पुरुषः सहस्राक्षः सहस्र पात्। स भूमिम् सर्वत स्पृत्वा ऽत्यतिष्ठद् दशांगुलम्॥1॥ पुरुषऽ एव इदम् सर्वम् यद भूतम् यच्च भाव्यम्। उत अमृत त्वस्य ईशानो यद् अन्नेन अतिरोहति॥2॥ एतावानस्य महिमातो ज्यायान्श्र्च पुरुषः। पादोस्य विश्वा भूतानि त्रिपादस्य अमृतम् दिवि॥3॥ त्रिपाद् उर्ध्व उदैत् पुरूषः पादोस्य इहा भवत् पुनः। ततो विष्वङ् व्यक्रामत् साशनानशनेऽ अभि॥4॥ ततो विराड् अजायत विराजोऽ अधि पुरुषः। स जातोऽ अत्यरिच्यत पश्चाद् भूमिम् अथो पुरः॥5॥ तस्मात् यज्ञात् सर्वहुतः सम्भृतम् पृषदाज्यम्। पशूँस्ताँश् चक्रे वायव्यान् आरण्या ग्राम्याश्च ये॥6॥ तस्मात् यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे॥ छन्दाँसि जज्ञिरे तस्मात् यजुस तस्माद् अजायत117॥ तस्मात् अश्वाऽ अजायन्त ये के चोभयादतः। गावो ह जज्ञिरे तस्मात् तस्मात् जाता अजावयः॥8॥ तम् यज्ञम् बर्हिषि प्रौक्षन् पुरुषम् जातम अग्रतः। तेन देवाऽ अयजन्त साध्याऽ ऋषयश्च ये॥9॥ यत् पुरुषम् व्यदधुः कतिधा व्यकल्पयन्॥ मुखम् किमस्य आसी...