बलिदान मंत्र व विधि

 

बलिदान


हाथ में जल अक्षत लेकर-ॐ तत्सदद्य अमुकगोत्रः अमुकशर्मा (वर्षा गुप्तोह) कृतस्य कर्मणः साङ्गतासिद्धचर्थं दशदिक्पालपूर्वकम् आदित्यादि-ग्रहमण्डलस्थापितदेवताभ्यो 'बलिदानञ्च करिष्ये । अग्नि के चारों ओर 10 दिशाओं में दही मिश्रित उड़द को दोना में रखकर एवं प्रत्येक के समीप दीप रखकर-ॐ इन्द्रादिदशदिक्पालेभ्यो नमः सर्वोपचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि, अक्षत, जल को भूमि पर छोड़ दें।। भो भो इन्द्रादिदशदिक्पालाः स्वां स्वां दिशं रक्षत बलि भक्षत कृपां वितरत मम सकुटुम्बस्य सपरिवारस्य आयुःकर्तारः क्षेमकर्तारः शान्तिकर्तारः पुष्टिकर्तारः तुष्टिकर्तारो वरदा भवत, प्रार्थना। शिरसि करौ कृत्वा भूमौ जानुभ्यां पतित्वा क्षमध्वमितिवदेदिति सर्वत्र। एभिर्बलिदानैः इन्द्रादिदशदिक्पालाः प्रीयन्ताम्। ततो ग्रहवेदीसमीपे पत्रावल्युपरि बलिं निधाय आदित्यादिग्रहार्थं बलिद्रव्याय नमः सर्वोपचारार्थे गन्धाक्षतपुष्पाणि' समर्पयामि। ॐसूर्यादिनवग्रहेभ्यः साङ्गेभ्यः सपरिवारेभ्यः सायुधेभ्यः सशक्तिकेभ्यः अधिदेवताप्र त्यधिदेवतागणपत्यादिपञ्चलो कपाल-वास्तोष्पतिसहितेभ्यः एतं सदीपमाषभक्तबलिं समर्पयामि इति जलमुत्सृजेत्। भो भो सूर्यादिनवग्रहा साङ्गाः सपरिवाराः सायुधाः सशक्तिका अधिदेवता-प्रत्यधिदेवता- गणपत्यादिपञ्चलोकपालवास्तोष्पतिसहिताः इमं बलिं गृह्णीत मम सकुटुम्बस्य सपरिवारस्य आयुःकर्तारः क्षेमकर्तारः शान्तिकर्तारः तुष्टिकर्तारः पुष्टिकर्तारो वरदा भवत। अनेन बलिदानेन सूर्यादिग्रहाः प्रीयन्ताम् । मातृकाओं के लिए भी एक बलि दें श्रीगौर्यादिमातृभ्यः इमं सदीपदधिमाषभक्तबलिं समर्पयामि, इति जलमुत्सृजेत्। भो भो गौर्यादिमातर इमं बलिं गृह्णीत आयुःकर्ज्यः क्षेमकर्ण्यः, शान्तिकर्ज्यः, पुष्टिकर्थ्यः, वरदा भवत। अनेन बलिदानेन श्रीगौर्यादिमातरः प्रीयन्ताम्।


योगिनि वेदि के समीप-ॐ चतुःषष्टियोगिनीभ्यः साङ्गभ्यः सपरिवाराभ्यः सायुधाभ्यः सशक्तिकाभ्यः इमं सदीपदधिमाषभक्तबलिं समर्पयामि, इति जलमुत्सृजेत्। भो भो चतुःषष्टियोगिन्यः इमं बलिं गृह्णीत मम सकुटुम्बस्य सपरिवारस्य आयुःकर्ज्यः क्षेमकर्ञः शान्तिकः तुष्टिकर्ञः पुष्टिकर्थ्यो वरदा भवत। अनेन बलिदानेन श्रीचतुःषष्टियोगिन्यः प्रीयन्ताम्। उसके बाद मूल मंत्र के अन्त में कूष्माण्डरसेनाप्यायताम् ० यह कहें। प्रधान देवता के लिए सुपूजित कुष्माण्ड बलि देकर पैर धो लें। आचमन कर शान्तिः शान्तिः शान्तिः कहे।


क्षेत्रपाल बलि-


एक बांस के पात्र में कुश बिछा कर भोजन के दो गुणा या चार गुणा उड़द, दधि और जलपात्र रखकर हल्दी, चन्दन, सिन्दूर, काजल, द्रव्य, पताका, चौमुख दीप से उसे सजाकर संकल्प करें।


ॐ अद्येत्यादि० सकलारिष्टशान्तिपूर्वक प्रारिप्सितकर्मणः साङ्गता-सिद्धचर्थ क्षेत्रपालपूजनं बलिदानञ्च करिष्ये।


संकल्प कर-ॐ न हि स्पर्शमविदन्नन्यमस्माद्वैश्वानरात्पुर एतारमग्नेः ।


एमेनमवृधन्नमृता अमर्त्यवैश्वानरं क्षेत्रजित्याय देवाः। ॐ श्रीक्षेत्रपालाय नमः क्षेत्रपालम् इस मंत्र से (बलि में रखे सुपारी में) आवाहयामि स्थापयामि। सर्वोपचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि दक्षिणाञ्च श्रीक्षेत्रपालाय नमः।


पूजा कर ध्यान करें-


भ्राजद्ववक्त्रजटाधरं त्रिनयनं नीलाञ्जनाद्रिप्रभं दोर्दण्डान्तगदाकपालमरुणं स्त्रग्गन्धवस्त्रावृतम् । घण्टाघुघुरुमेखलाध्वनिमिलधुंकारभीमं प्रभुं वन्दे संहितसर्पाकुण्डलधरं श्रीक्षेत्रपालं सदा ।।


प्रार्थना-ॐ नमो क्षेत्रपालस्त्वं भूतप्रेतगणैः सह।


पूजां बलिं गृहाणेमं सौम्यो भवतु सर्वदा देहि मे आयुरारोग्ये निर्विघ्नं कुरु सर्वदा। अनेन पूजनेन श्रीक्षेत्रपालः प्रीयताम् ।


हाथ में जल लेकर ॐ क्षेत्रपाल महाबाहो ! महाबलपराक्रम ! ।


क्षेत्राणां रक्षणार्थाय बलिं नय नमोस्तु ते।।


श्रीक्षौं क्षेत्रपालाय सांगाय भूतप्रेतपिशाचडाकिनीपिशाचिनी- मारीगण-वेतालादिपरिवारयुताय सायुधाय सशक्तिकाय सवाहनाय इमं सचतुर्मुखदीप-


दधिमाषभक्तवबलिं समर्पयामि।


जल छोड़कर प्रार्थना करें-भो भोः क्षेत्रपाल ! स्वं क्षेत्र रक्ष बलिं भक्ष यज्ञं परिरक्ष मम सकुटुम्बस्याभ्युदयं कुरु-आयुःकर्ता क्षेमकर्ता शान्तिकर्ता पुष्टिकर्ता तुष्टिकर्ता निर्विघ्नकर्ता वरदो भव ॐ अनेन बलिदानेन श्रीक्षेत्रपालः प्रीयताम् ।

Comments

Popular posts from this blog

रावण द्वारा शिवजी से प्राप्त सर्वसिद्धिप्रद काली कवच

जब गंगा जी भागीरथ द्वारा पृथ्वी पर लायी गयी तो राजा हरिश्चंद्र के समय काशी मे गंगा जी नही थी?

सर्वसिद्धिप्रद कालिका मंत्र